|
|
 |
 |
|
|
१२ शान्तिपर्व.jpg)
॥ श्रीः ॥
12.117. अध्यायः 117
Mahabharata - Shanti Parva - Chapter Topics
मुपिवरेण व्याघ्रीकृतस्य स्वीयशुनो गजाद्भये सति गजत्वप्रापणम्॥ 1॥ पुनः सिंहाद्भये सिंहीकृतस्य तस्यैव शरभाद्भये शरभीकरणम्॥ 2॥ दुष्टभावेनात्मजिघांसोस्तस्य पुनः श्वभावप्रापणम्॥ 3॥

Mahabharata - Shanti Parva - Chapter Text
भीष्म उवाच। 12-117-0x(5659)(69316)
व्याघ्रश्वोटजमूलस्थस्तृप्तः सुप्तो हतैर्मृगैः।
नागभागात्तमुद्देशं मत्तो मेघ इवोत्थितः॥ 12-117-1(69317)
प्र--करटः प्रांशुः पझी विततकुम्भकः।
सु--णो महाकायो मेघगम्भीरनिः स्वनः॥ 12-117-2(69318)
तं दृष्ट्वा कुञ्जरं मत्तमायान्तं बलगर्वितम्।
व्या हस्तिभयान्त्रस्तस्तमृषिं शरणं ययौ॥ 12-117-3(69319)
ततोऽनयत्कुञ्जरत्वं व्याघ्रं तमृषिसत्तमः।
महमेघोपमं दृष्ट्वा स भीतो ह्यभवद्गजः॥ 12-117-4(69320)
ततः कमलषण़्डानि सल्लकीगहनानि च।
व्य--रत्स मुदायुक्तः पझरेणुविभूषितः॥ 12-117-5(69321)
कदचिद्दममाणस्य हस्तिनः संमुखं तदा।
ऋषेस्तस्योटस्थस्य कालोऽगच्छद्दिवानिशम्॥ 12-117-6(69322)
अथाजगाम तं देशं केसरी केसरारुणः।
गिन्विन्दरजो भीमः सिंहो नागकुलान्तकः॥ 12-117-7(69323)
तं--- सिंहमायान्तं नागः सिंहभयार्दितः।
ऋषिं शरणमापेदे वेपमानो भयातुरः॥ 12-117-8(69324)
स त-ः सिंहतां नीतो गजेन्द्रो मुनिना तदा।
तं च नागणयत्सिंहं तुल्यजातिसमन्वयात्॥ 12-117-9(69325)
दृष्ट्वा च सोऽभवत्सिंहो वन्यो हिंसन्नवाग्बलः।
स चाश्रपेऽवसत्सिंहस्तस्मिन्नेव सुखी वने॥ 12-117-10(69326)
न चान्ये क्षुद्रपशवस्तपोवनसमीपतः।
व्यदृश्यन्त तदा त्रस्ता जीविताकाङ्क्षिणस्तथा॥ 12-117-11(69327)
कदाचित्कालयोगेन सर्वप्राणिविहिंसकः।
बलवान्क्षतजाहारो नानासत्वभयंकरः॥ 12-117-12(69328)
अष्टपादर्ध्वनयनः शरभो वनगोचरः।
तं सिंहं हन्तुमागच्छन्मुनेस्तस्य निवेशने॥ 12-117-13(69329)
`तं दृष्ट्वा शरभं यान्तं सिंहः परभयान्वितः।
ऋषिं शरणमापेदे वेपमानः कृताञ्जलिः॥' 12-117-14(69330)
सं मुनिः शरभं चक्रे बलोत्कटमरिंदम।
ततः स शरभो वन्यो मुनेः शरभमग्रतः।
दृष्ट्वा बलिनमत्युग्रं द्रुतं संप्राद्रवद्वनम्॥ 12-117-15(69331)
स एवं शरभस्थाने न्यस्तो वै मुनिना तदा।
मुनेः पार्श्वगतो नित्यं शरभः सुखमाप्तवान्॥ 12-117-16(69332)
ततः शरभसंत्रस्ताः सर्वे मृगगणा वनात्।
दिशः संप्राद्रवत्राजन्भयाज्जीवितकाङ्क्षिणः॥ 12-117-17(69333)
शरभोऽप्यतिसंहृष्टो नित्यं प्राणिवधे रतः।
फलमूलाशनं कर्तुं नैच्छत्स पिशिताशनः॥ 12-117-18(69334)
ततः क्षुद्रसमाचारो बलेन च समन्वितः।
इयेष तं मुनिं हन्तुमकृतज्ञः कृतान्वयः॥ 12-117-19(69335)
`चिन्तयामास च तदा शरभः श्वानपूर्वकः॥ 12-117-20(69336)
अस्य प्रभावात्संप्राप्तो वाङ्भात्रेणैव केवलम्।
शरभत्वं सुदुष्प्रापं सर्वभूतभयंकरम्॥ 12-117-21(69337)
अन्येऽप्यत्र भयत्रस्ताः सन्ति सत्वा भयार्दिताः।
मुनिमाश्रित्य जीवन्तो मृगाः पक्षिगणास्तथा॥ 12-117-22(69338)
तेषामपि कदाचिच्च शरभत्वं प्रयच्छति।
सर्वसत्वोत्तमं लोके बलं यत्र प्रतिष्ठितम्॥ 12-117-23(69339)
पक्षिणामप्ययं दद्यात्कदाचिद्गारुडं बलम्॥ 12-117-24(69340)
यावदन्यस्य संप्रीतः कारुण्यं तु समाश्रितः।
न ददाति बलं तुष्टः सत्वस्यान्यस्य कस्यचित्॥ 12-117-25(69341)
तावदेनमहं विप्रं वधिष्यामि च शीघ्रतः।
स्थातुं मया शक्यमिह मुनिघातान्न संशयः॥' 12-117-26(69342)
ततस्तेन तपःशक्त्या विदितो ज्ञानचक्षुषा।
विज्ञाय च मुनिः प्राज्ञस्ततः शापं प्रयुक्तवान्॥ 12-117-27(69343)
`अहमग्निप्रभो नाम मुनिर्भृगुकुलान्वयः।
मनसा निर्दहेयं च जगत्संधारयामि च॥ 12-117-28(69344)
मम वश्यं जगत्सर्वं देवा यच्च चराचरम्।
सन्ति देवाश्च ये भीताः स्वधर्मं न त्यजन्ति ये।
स्वधर्माच्चलितान्सर्वान्वाङ्भात्रेणापि निर्दहे॥ 12-117-29(69345)
किमङ्ग त्वं मया नीतः शरभत्वमनामयम्।
क्रूरः स सर्वभूतेषु हीनश्चाशुचिरेव च॥' 12-117-30(69346)
श्वा त्वं द्वीपित्वमापन्नो द्वीपी व्याघ्रत्वमागतः।
व्याघ्रान्नागो मदपटुर्नागः सिंहत्वमागतः॥ 12-117-31(69347)
सिंहस्त्वं बलमापन्नो भूयः शरभतां गतः।
मया स्नेहपरीतेन विसृष्टो न कुलान्वयः॥ 12-117-32(69348)
यस्मादेवमपापं मां पाप हिंसितुमिच्छसि।
तस्मात्स्वयोनिमापन्नः पुनः श्वानो भविष्यसि॥ 12-117-33(69349)
ततो मुनिजनद्वेष्टा दुष्टात्मा प्राकृतोऽबुधः।
ऋषिणा शरभः शप्तस्तद्रूपं पुनराप्तवान्॥ ॥ 12-117-34(69350)
इति श्रीमन्महाभारते शान्तिपर्वणि राजधर्मपर्वणि सप्तदशाधिकशततमोऽध्यायः॥ 117॥
Mahabharata - Shanti Parva - Chapter Footnotes
12-117-1 मृगैस्तृप्तः॥ 12-117-9 समन्वयात्संबन्धात्॥ 12-117-19 ततो रुधिरतर्षेण बलिना शरभोऽन्वितः इति झ. पाठः॥ 12-117-31 मदपटुः प्रवहन्मदः॥ 12-117-32 विसृष्टो विविधेन रूपेण त्वं सृष्टः। न तु त्वं कुलान्वयः। तेन तेन कुलेनान्वयः संबन्धो यस्य स कुलान्वयस्तादृशस्त्वं न भवसि॥ 12-117-33 श्वैव त्वं हि भविष्यसीति झ. पाठः॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|